(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.127. अध्यायः 127
Mahabharata - Drona Parva - Chapter Topics
कतिचन धार्तराष्ट्रान्निहत्य निर्गच्छता भीमेन स्वपथं निरुन्धानस्य द्रोणस्य रथभञ्जनम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

भीमसेन उवाच। 7-127-0x(4585)(50205)
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः।
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम्॥ 7-127-1(50206)
तवाज्ञां शिरसा बिभ्रदेष गच्छामि मा शुचः।
समेत्य तान्नरव्याघ्रास्तव दास्यामि संविदम्॥ 7-127-2(50207)
सञ्जय उवाच। 7-127-3x(4586)
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्।
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनःपुनः।
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः॥ 7-127-3(50208)
विदितं ते महाबाहो यथा द्रोणो महारथः।
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते॥ 7-127-4(50209)
न च मे गमने कृत्यं तादृक्पार्षत विद्यते।
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः॥ 7-127-5(50210)
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे।
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः॥ 7-127-6(50211)
धर्मराजस्य वचने स्थातव्यमविशङ्कया।
यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः॥ 7-127-7(50212)
सोऽद्य यत्तो रणे रार्थं परिरक्ष युधिष्ठिरम्।
एतद्धि सर्वकार्याणां परमं कृत्समाहवे॥ 7-127-8(50213)
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्।
ईप्सितं ते करिष्यामि गच्छ पार्थाविचारयन्॥ 7-127-9(50214)
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन।
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे॥ 7-127-10(50215)
सञ्जय उवाच। 7-127-11x(4587)
ततो निक्षिप्य राजानं धृष्टद्युम्ने च पाण्डवम्।
अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फल्गुनः॥ 7-127-11(50216)
परिष्वक्तश्च कौन्तेयो धर्मराजेन मारुतिः।
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः॥ 7-127-12(50217)
[कृत्वा प्रदक्षिणान्विप्रानर्चितांस्तुष्टमानसान्।
आलभ्य मङ्गलान्यष्टौ पीत्वा कैरातकं मधु॥ 7-127-13(50218)
द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः।
विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः॥ 7-127-14(50219)
पश्यन्नेवात्मनो बुद्धिं विजयानन्दकारिणीम्।
अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः॥ 7-127-15(50220)
भीमसेनो महाबाहुः कवची शुभकुण्डली।
सगदः सतलत्राणः सशरी रथिनां वरः।
रथमारुह्य निर्युक्तं सर्वोपकरणान्वितम्'॥ 7-127-16(50221)
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत्।
विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः॥ 7-127-17(50222)
पीतरक्तासितसितैर्वासौभिश्च सुवेष्टितः।
कण्ठसूत्रेण विबभौ सेन्द्रायुध इवाम्बुदः॥ 7-127-18(50223)
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया।
पाञ्चजन्यरवो घोरः पुनरासीद्विशाम्पते॥ 7-127-19(50224)
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत्।
पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत॥ 7-127-20(50225)
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम्।
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट्॥ 7-127-21(50226)
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि।
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः॥ 7-127-22(50227)
नूनमार्या महत्कुन्ती पापं व्यसनमीदृशम्।
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः।
तद्भीम त्वरया युक्तो याहि यत्र धनञ्जयः॥ 7-127-23(50228)
मुह्यतीव हि मे चित्तं धनञ्जयदिदृक्षया।
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात्॥ 7-127-24(50229)
गच्छगच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः।
ततः पाण्डुसुतो राजन्भीमसेनः प्रतापवान्॥ 7-127-25(50230)
बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः।
ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः॥ 7-127-26(50231)
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माप्य चासकृत्।
विनद्य सिंहनादेन ज्यां विकर्षन्पुनःपुनः॥ 7-127-27(50232)
तेन शब्देन वीराणां पातयित्वा मनांस्युत।
दर्शयन्घोरमात्मानममित्रान्सहसाऽभ्ययात्॥ 7-127-28(50233)
तमूहुर्जवना दान्ता विरुवन्तो हयोत्तमाः।
विशोकेन सुसंयत्ता मनोमारुतरंहसः॥ 7-127-29(50234)
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना।
सम्प्रकर्षन्विकर्षंश्च सेनाग्रं समलोडयत्॥ 7-127-30(50235)
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः।
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः॥ 7-127-31(50236)
तं समेत्य महाराज तावकाः पर्यवारयन्।
दुःशासनश्चित्रसेनः कुण्डभेदी विविंशतिः॥ 7-127-32(50237)
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा।
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः॥ 7-127-33(50238)
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः।
अभयो रौद्रकर्णा च सुवर्मा दुर्विमोचनः॥ 7-127-34(50239)
शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः।
संयत्ताः समरे वीरा भीमसेनमुपाद्रवन्॥ 7-127-35(50240)
तैः समन्ताद्वृतः शूरैः समरेषु महारथः।
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी।
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव॥ 7-127-36(50241)
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन्।
छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम्॥ 7-127-37(50242)
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी।
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत्॥ 7-127-38(50243)
ते वध्यमानाः समरे तव पुत्रा महारथाः।
भीमं भीमबला युद्धे योधयन्ति जयैषिणः॥ 7-127-39(50244)
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत्।
सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम्॥ 7-127-40(50245)
आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम्।
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत्॥ 7-127-41(50246)
अथान्यैर्विशिखैस्तीक्ष्णैः सङ्क्रुद्धः कुण्डभेदिनम्।
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली॥ 7-127-42(50247)
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्।
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः॥ 7-127-43(50248)
अभयं रौद्रकर्माणं दुर्विमोचनमेव च।
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव॥ 7-127-44(50249)
वध्यमाना महाराज पुत्रास्तव बलीयसा।
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन्॥ 7-127-45(50250)
ते शरैर्भीमकर्माणं ववर्षुः पाण्डवं युधि।
मेघा इवातपापाये धाराभिर्धरणीधरम्॥ 7-127-46(50251)
स तद्बाणमयं वर्षमश्मवर्षमिवाचलः।
प्रतीच्छन्पाण्डुदायादो न प्राव्यथत शत्रुहा॥ 7-127-47(50252)
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्।
प्रहसन्नेव कौन्तेयः शरैर्निन्यं यमक्षयम्॥ 7-127-48(50253)
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ।
विव्याध समरे तूर्णं स पपात ममार च॥ 7-127-49(50254)
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः।
दिशः सर्वाः समालोक्य व्यधमत्पाण्डुनन्दनः॥ 7-127-50(50255)
ततो वै रथघोषेण गर्जितेन मृगा इव।
भज्यमानाश्च समरे तव पुत्रा विशाम्पते।
प्राद्रवन्सहसा सर्वे भीमसेनभयर्दिताः॥ 7-127-51(50256)
अनुयायाच्च कौन्तेयः पुत्राणां ते महद्बलम्।
विव्याध समरे राजन्कौरवेयान्समन्ततः॥ 7-127-52(50257)
वध्यमाना महाराज भीमसेनेन तावकाः।
त्यक्त्वा भीमं रणाज्जग्मुश्चोदयन्तो हयोत्तमान्। 7-127-53(50258)
तांस्तु निर्जित्य समरे भीमसेनो महाबलः।
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः॥ 7-127-54(50259)
*महान्तं तलशब्दं च कृत्वा द्रोणान्तिकं ययौ।
तमावारयदाचार्यो वेलेवोद्वृत्तमर्णवम्॥ 7-127-55(50260)
तस्य द्रोणो रथं राजञ्छादयामास संयुगे।
साश्वसूतध्वजं तूर्णं तदद्भुतमिवाभवत्॥ 7-127-56(50261)
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव।
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः॥ 7-127-57(50262)
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा।
भीमः करिष्यते पूजामित्युवाच वृकोदरम्॥ 7-127-58(50263)
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम्।
मामनिर्जित्य समरे शत्रुमद्य महाबल॥ 7-127-59(50264)
यदि ते सानुजः कृष्णः प्रविष्टोऽनुमते मम।
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया॥ 7-127-60(50265)
सञ्जय उवाच। 7-127-61x(4588)
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमशेषतः।
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन्॥ 7-127-61(50266)
तवार्जुनो नानुमते ब्रह्बन्धो रमाजिरम्।
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम्॥ 7-127-62(50267)
येन त्वं परमां पूजां कुर्वता मानितो ह्यसि।
नार्जुनोऽहं घृणी विप्र भीमसेनोऽस्मि ते रिपुः॥ 7-127-63(50268)
पिता नस्त्वं गुरुर्बन्धुस्तदा पुत्रा हि र्ते वयम्।
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः॥ 7-127-64(50269)
तदद्य विपरीतं ते वदतोऽस्मासु दृश्यते।
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथाऽस्त्विह।
एष ते सदृशं कर्म शत्रोर्भीमः करिष्यति॥ 7-127-65(50270)
सञ्जय उवाच। 7-127-66x(4589)
अथोद्धाम्य गदां वीरः कालदण्डमिवान्तकः।
द्रोणायावासृजद्राजन्स रथादवपुप्लुवे॥ 7-127-66(50271)
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा।
तदद्भुतमपश्याम पाण्डवेयस्य विक्रमम्॥ 7-127-67(50272)
द्रोणं तु विरथं कृत्वा भीमसेनो महाबलः।
अभ्यवर्तत सैन्यानि तावकानि समन्ततः॥ 7-127-68(50273)
स मृद्रंस्तरसा योधान्वायुर्वृक्षानिवौजसा।
विचचार रणे राजन्वायुतुल्यपराक्रमः॥ 7-127-69(50274)
निर्जितस्तु तदा तेन पाण्डवेन महात्मना।
अन्यं तु रथमातिष्ठद्द्रोणः प्रहरतां वरः॥ ॥ 7-127-70(50275)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तविंशत्यधिकशततमोऽध्यायः॥ 127 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-127-1 संविदं ज्ञापनम्॥ 5-127- आत्ययिकं अतिशयितम्॥ 5-127- इदं श्लोकत्रयं झ. पुस्तक एव वर्तते। अनलो गोहिरण्यं च दूर्वागोरोचनामृतम्। अक्षतं दधि चेत्यष्टौ मङ्गलानि प्रचक्षते॥ 5-127- विजयोत्पादसूचितः सूचितविजयोत्पादः॥ 5-127- रथमारुह्य प्रययाविति पूर्वेणान्वयः॥ 5-127- आह कुन्ती नूनमार्या पापमद्य निदर्शनम्। द्रोपद्री च सुभद्रा च पश्यन्त्यौ सह बन्धुभिः। इति झ. पाठः॥ 5-127- आरुजन् कृन्तन्। विरुजन्विष्यन्। विकर्षन् अत्यर्थं कर्षन्। सम्प्रकर्षन् सम्यक्प्रकर्षेण विलिखन्। विकर्षन् विक्षिपन्॥ 5-127-* इयं कथा झ. पाठे पूर्वाध्याये 37 तमश्लोकादनन्तरं कथितास्ति।


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.